अध्ययनसंप्रदानीयाध्यायः
अथातोऽध्ययनसम्प्रदानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
"Now, we shall expound the chapter on imparting education."
"As spoken by the revered Dhanvantari."
This introductory passage sets the stage for discussing the methods and importance of imparting education in Ayurveda, as taught by Dhanvantari.
प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु |
तत्र सूत्रस्थानमध्यायाः षट्चत्वारिंशत्, षोडश निदानानि, दश शारीराणि, चत्वारिंशच्चिकित्सितानि, अष्टौ कल्पाः, तदुत्तरं षट्षष्टिः ||३||
"As previously mentioned, the complete treatise consists of 120 chapters, distributed across five sections. Among these, 46 chapters belong to the Sutra Sthana, 16 to Nidana Sthana, 10 to Sharira Sthana, 40 to Chikitsa Sthana, and 8 to Kalpa Sthana, with an additional 66 chapters in the Uttara Tantra."
This verse provides an overview of the structure and distribution of the chapters in the Sushruta Samhita, detailing how they are organized across different sections.
वेदोत्पत्तिः शिष्यनयस्तथाऽध्ययनदानिकः |
प्रभाषणाग्रहरणावृतुचर्याऽथ यान्त्रिकः ||४||
शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम् |
अग्निकर्म जलौकाख्यो ह्यध्यायो रक्तवर्णनम् ||५||
दोषधातुमलाद्यानां विज्ञानाध्याय एव च |
कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ||६||
हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक् |
कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ||७||
विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा |
शल्योद्धृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम् ||८||
पञ्चेन्द्रियं तथा छाया स्वभावाद्वैकृतं तथा |
अवारणो युक्तसेनीय आतुरक्रमभूमिकौ ||९||
मिश्रकाख्यो द्रव्यगणः संशुद्धौ शमने च यः |
द्रव्यादीनां च विज्ञानं विशेषो द्रव्यगोऽपरः ||१०||
रसज्ञानं वमनार्थमध्यायो रेचनाय च |
द्रवद्रव्यविधिस्तद्वदन्नपानविधिस्तथा ||११||
सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः |
षट्चत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते ||१२||
"In the Sutra Sthana, there are 46 chapters:
-
वेदोत्पत्त्यध्यायः
-
शिष्योपनयनीयाध्यायः
-
अध्ययनसंप्रदानीयाध्यायः
-
प्रभाषणीयाध्यायः
-
अग्रोपहरणीयाध्यायः
-
ऋतुचर्याध्यायः
-
यन्त्रविध्यध्यायः
-
शस्त्रावचारणीयाध्यायः
-
योग्यासूत्रीयाध्यायः
-
विशिखानुप्रवेशनीयाध्यायः
-
क्षारपाकविध्यध्यायः
-
अग्निकर्मविध्यध्यायः
-
जलौकावचारणीयाध्यायः
-
शोणितवर्णनीयाध्यायः
-
दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः
-
कर्णव्यधबन्धविध्यध्यायः
-
आमपक्वैषणीयाध्यायः
-
व्रणालेपनबन्धविध्यध्यायः
-
व्रणितोपासनीयाध्यायः
-
हिताहितीयाध्यायः
-
व्रणप्रश्नाध्यायः
-
व्रणास्रावविज्ञानीयाध्यायः
-
कृत्याकृत्यविध्यध्यायः
-
व्याधिसमुद्देशीयाध्यायः
-
अष्टविधशस्त्रकर्मीयाध्यायः
-
प्रनष्टशल्यविज्ञानीयाध्यायः
-
शल्यापनयनीयाध्यायः
-
विपरीताविपरीतव्रणविज्ञानीयाध्यायः
-
विपरीताविपरीतदूतशकुनस्वप्ननिदर्शनीयाध्यायः
-
पञ्चेन्द्रियार्थविप्रतिपत्त्यध्यायः
-
छायाविप्रतिपत्त्यध्यायः
-
स्वभावविप्रतिपत्त्यध्यायः
-
अवारणीयाध्यायः
-
युक्तसेनीयाध्यायः
-
आतुरोपक्रमणीयाध्यायः
-
भूमिप्रविभागविज्ञानीयाध्यायः
-
मिश्रकाध्यायः
-
द्रव्यसंग्रहणीयाध्यायः
-
संशोधनसंशमनीयाध्यायः
-
द्रव्यरसगुणवीर्यविपाकविज्ञानीयाध्यायः
-
द्रव्यविशेषविज्ञानीयाध्यायः
-
रसविशेषविज्ञानीयाध्यायः
-
वमनद्रव्यविकल्पविज्ञानीयाध्यायः
-
विरेचनद्रव्यविकल्पविज्ञानीयाध्यायः
-
द्रवद्रव्यविध्यध्यायः
-
अन्नपानविध्यध्यायः
This list provides an outline of the chapters included in the Sutra Sthana, each focusing on different aspects of Ayurveda.
वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः |
कुष्ठमेहोदरं मूढो विद्रधिः परिसर्पणम् ||१३||
ग्रन्थिवृद्धिक्षुद्रशूकभग्नाश्च मुखरोगिकम् |
हेतुलक्षणनिर्देशान्निदानानीति षोडश ||१४||
"In the Nidana Sthana, there are 16 chapters:
-
वातव्याधिनिदानम्
-
अर्शोनिदानम्
-
अश्मरीनिदानम्
-
भगन्दरनिदानम्
-
कुष्ठनिदानम्
-
प्रमेहनिदानम्
-
उदरनिदानम्
-
मूढगर्भनिदानम्
-
विद्रधिनिदानम्
-
विसर्पनाडीस्तनरोगनिदानम्
-
ग्रन्थ्यपच्यर्बुदगलगण्डनिदानम्
-
वृद्ध्युपदंशश्लीपदनिदानम्
-
क्षुद्ररोगनिदानम्
-
शूकदोषनिदानम्
-
भग्ननिदानम्
-
मुखरोगनिदानम्
These verses list the sixteen types of diseases covered in the Nidana Sthana, focusing on their etiology, symptoms, and diagnostic methods.
भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च |
व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् ||१५||
प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च |
सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा ||१६||
निर्दिष्टानि दशैतानि शारीराणि महर्षिणा |
विज्ञानार्थं शरीरस्य भिषजां योगिनामपि ||१७||
"In the Sharira Sthana, there are 10 chapters:
-
सर्वभूतचिन्ताशारीरम्
-
शुक्रशोणितशुद्धिशारीरम्
-
गर्भावक्रान्तिशारीरम्
-
गर्भव्याकरणशारीरम्
-
शरीरसंख्याव्याकरणशारीरम्
-
प्रत्येकमर्मनिर्देशशारीरम्
-
सिरावर्णविभक्तिशारीरम्
-
सिराव्यधविधिशारीरम्
-
धमनीव्याकरणशारीरम्
-
गर्भिणीव्याकरणशारीरम्
These verses provide an overview of the ten chapters of the Sharira Sthana, which cover various topics related to anatomy, embryology, vital points, and the study of the human body.
द्विव्रणीयो व्रणः सद्यो भग्नानां वातरोगिकम् |
महावातिकमर्शांसि साश्मरिश्च भगन्दरः ||१८||
कुष्ठानां महतां चापि मैहिकं पैडिकं तथा |
मधुमेहचिकित्सा च तथा चोदरिणामपि ||१९||
मूढगर्भचिकित्सा च विद्रधीनां विसर्पिणाम् |
ग्रन्थिवृद्ध्युपदंशानां तथा च क्षुद्ररोगिणाम् ||२०||
शूकदोषचिकित्सा च तथा च मुखरोगिणाम् |
शोफस्यानागतानां च निषेधो मिश्रकं तथा ||२१||
वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च |
मेधायुष्करणं चापि स्वभावव्याधिवारणम् ||२२||
निवृत्तसन्तापकरं कीर्तितं च रसायनम् |
स्नेहोपयौगिकः स्वेदो वमने सविरेचने ||२३||
तयोर्व्यापच्चिकित्सा च नेत्रबस्तिविभागिकः |
नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः ||२४||
निरूहक्रमसञ्ज्ञश्च तथैवातुरसञ्ज्ञकः |
धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति [स्मृताः ||२५||
प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च |
पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते ||२६||
"In the Chikitsa Sthana, there are 40 chapters:
-
द्विव्रणीयचिकित्सितम्
-
सद्योव्रणचिकित्सितम्
-
भग्नचिकित्सितम्
-
वातव्याधिचिकित्सितम्
-
महावातव्याधिचिकित्सितम्
-
अर्शश्चिकित्सितम्
-
अश्मरीचिकित्सितम्
-
भगन्दरचिकित्सितम्
-
कुष्ठचिकित्सितम्
-
महाकुष्ठचिकित्सितम्
-
प्रमेहचिकित्सितम्
-
प्रमेहपिडकाचिकित्सितम्
-
मधुमेहचिकित्सितम्
-
उदरचिकित्सितम्
-
मूढगर्भचिकित्सितम्
-
विद्रधिचिकित्सितम्
-
विसर्पनाडीस्तनरोगचिकित्सितम्
-
ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितम्
-
वृद्ध्युपदंशश्लीपदचिकित्सितम्
-
क्षुद्ररोगचिकित्सितम्
-
शूकरोगचिकित्सितम्
-
मुखरोगचिकित्सितम्
-
शोफचिकित्सितम्
-
अनागतबाधाप्रतिषेधः
-
मिश्रकचिकित्सितम्
-
क्षीणबलीयवाजीकरणम्
-
सर्वोपघातशमनीयरसायनम्
-
मेधायुःकामीयरसायनम्
-
स्वभावव्याधिप्रतिषेधनीयरसायनम्
-
निवृत्तसंतापीयरसायनम्
-
स्नेहोपयौगिकचिकित्सितम्
-
स्वेदावचारणीयचिकित्सितम्
-
वमनविरेचनसाध्योपद्रवचिकित्सितम्
-
वमनविरेचनव्यापच्चिकित्सितम्
-
नेत्रबस्तिप्रमाणप्रविभागचिकित्सितम्
-
नेत्रबस्तिव्यापच्चिकित्सितम्
-
अनुवासनोत्तरबस्तिचिकित्सितम्
-
निरूहक्रमचिकित्सितम्
-
आतुरोपद्रवचिकित्सितम्
-
धूमनस्यकवलग्रहचिकित्सितम्
These verses provide an outline of the chapters included in the Chikitsa Sthana, each focusing on different aspects of treatment and management of diseases in Ayurveda.
अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च |
सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् ||२७||
दुन्दुभेर्मूषिकाणां च कीटानां कल्प एव च |
अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् ||२८||
"In the Kalpa Sthana, there are 8 chapters:
-
अन्नपानरक्षाकल्पः
-
स्थावरविषविज्ञानीयकल्पः
-
जङ्गमविषविज्ञानीयकल्पः
-
सर्पदष्टविषविज्ञानीयकल्पः
-
सर्पदष्टविषचिकित्सितकल्पः
-
दुन्दुभिस्वनीयकल्पः
-
मूषिककल्पः
-
कीटकल्पः
These verses provide an overview of the eight chapters included in the Kalpa Sthana, which focus on various methods for treating poisonings and venomous bites, as well as the preservation of food and substances.
अध्यायानां शतं विंशमेवमेतदुदीरितम् |२९|
"Thus, this treatise is said to contain one hundred and twenty chapters."
This verse reaffirms that the Sushruta Samhita is composed of 120 chapters, detailing various aspects of Ayurveda.
अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते ||२९||
अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्रवान् |
औपद्रविक इत्येष तस्याग्र्यत्वान्निरुच्यते ||३०||
सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु |
संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ||३१||
चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः |
पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ||३२||
लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु |
क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ||३३||
घ्राणोत्थानां च विज्ञानं तद्गदप्रतिषेधनम् |
प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् ||३४||
चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते |३५|
"Henceforth, this treatise is called Uttara Tantra."
"As it primarily deals with complications, it is known as the section dealing with complications."
"It describes the diseases of the joints, eyes (both white and black portions), and other sensory organs, chapter by chapter."
"The division of treatments for Vata (wind), Pitta (bile), Kapha (phlegm), and blood disorders are also elaborated."
"The specifics of surgical procedures, forbidden actions in surgical practices, eye treatments, injuries, ear disorders, and their treatments are detailed."
"Knowledge of nasal disorders, their prevention, management of nasal catarrh, and analysis of head diseases are also described."
"The treatments for these diseases are discussed under Shalakya Tantra."
These verses introduce the Uttara Tantra, focusing on the complications, sensory organ diseases, and their treatments, particularly under the branch of Shalakya Tantra.
नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ||३५||
अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् |
पूतनायास्तथाऽन्धायाः शीतपूतनमण्डिका ||३६||
नैगमेषचिकित्सा च ग्रहोत्पत्तिः सयोनिजा |
कुमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम् ||३७||
"Knowledge of the forms of the nine planets and the rituals to pacify Skanda (Karttikeya)."
"Knowledge of epilepsy, omens, and the Revati star, as well as the demons Putana and Andha, the cold fever Putana, and Mandika."
"Treatment of epidemics, origin of afflictions (grahas), and the science related to children. These topics are mentioned in the Sharira Sthana."
These verses provide an overview of additional topics covered in the Sharira Sthana and Uttara Tantra, focusing on astrological knowledge, rituals, pediatric care, and treatment of various afflictions and omens.
ज्वरातिसारशोषाणां गुल्महृद्रोगिणामपि |
पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ||३८||
तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः |
स्वरभेदचिकित्सा च कृम्युदावर्तिनोः पृथक् ||३९||
विसूचिकारोचकयोर्मूत्राघातविकृच्छ्रयोः |
इति कायचिकित्सायाः शेषमत्र प्रकीर्तितम् ||४०||
"Treatment of fever, diarrhea, consumption, abdominal tumors, heart diseases, anemia, bleeding disorders, and fainting caused by drinking."
"Treatment of excessive thirst, vomiting, hiccups, dyspnea, cough, voice disorders, and individual treatments for worms and abdominal distension."
"Treatment of cholera, anorexia, urinary retention, and difficult urination. Thus, the remaining chapters of Kayachikitsa (internal medicine) are mentioned here."
These verses provide an overview of the remaining chapters included in the Chikitsa Sthana, focusing on various treatments for internal diseases.
अमानुषनिषेधश्च तथाऽऽपस्मारिकोऽपरः |
उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ||४१||
"The prohibition against non-human influences, treatment of epilepsy, and the management of insanity. Thus, Bhutavidya (the science of spirits) is described."
This verse provides an overview of the topics covered under Bhutavidya, which focuses on managing conditions believed to be influenced by supernatural entities, as well as epilepsy and insanity.
रसभेदाः स्वस्थवृत्तं युक्तयस्तान्त्रिकाश्च याः |
दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ||४२||
"The differences in tastes (Rasa), health regimens, therapeutic strategies, and the classification of Doshas are known as the chapters that adorn the treatise."
This verse highlights additional topics covered in the text, focusing on the classification of tastes, health routines, therapeutic methods, and the different types of Doshas, which enhance the overall knowledge presented in the treatise.
श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः |
बह्वर्थसङ्ग्रहाच्छ्रेष्ठमुत्तरं वाऽपि पश्चिमम् ||४३||
"The sages have declared this Uttara Tantra superior due to its comprehensiveness and extensive coverage of various topics. Hence, it is considered the best or the concluding section."
This verse emphasizes the importance and superiority of the Uttara Tantra, acknowledging its detailed and comprehensive content, which makes it a distinguished and essential part of the Sushruta Samhita.
शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या |
भूतविद्येति चत्वारि तन्त्रे तूत्तरसञ्ज्ञिते ||४४||
वाजीकरं चिकित्सासु रसायनविधिस्तथा |
विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ||४५||
इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम् |
विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि ||४६||
"The four branches mentioned in the Uttara Tantra are: Shalakya Tantra (ENT and Ophthalmology), Kaumarabhritya (Pediatrics), Kayachikitsa (Internal Medicine), and Bhutavidya (Psychiatry)."
"In the treatments, Vajikarana (Aphrodisiac Therapy), Rasayana (Rejuvenation Therapy), Vishatantra (Toxicology), and Kalpa (Preparation of Medicines), as well as complete knowledge of surgery, are mentioned."
"Thus, these eight branches of the treatise, revealed by the primordial deity, when studied and practiced correctly, grant life on earth."
These verses provide a summary of the eight branches of Ayurveda as described in the Uttara Tantra, highlighting the importance of each branch and its contribution to the overall knowledge and practice of Ayurveda.
एतद्ध्यवश्यमध्येयम्, अधीत्य च कर्माप्यवश्यमुपासितव्यम्, उभयज्ञो हि भिषग् राजार्हो भवति ||४७||
"This must be thoroughly studied, and having studied it, the practice must be diligently followed. A physician proficient in both (study and practice) is fit to serve a king."
This verse emphasizes the importance of both studying and practicing the principles of Ayurveda. It highlights that a physician who excels in both these aspects is deemed worthy of serving even a king.
भवन्ति चात्र-
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः |
स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ||४८||
यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः |
स सत्सु पूजां नाप्नोति वधं चर्च्छति राजतः ||४९||
उभावेतावनिपुणावसमर्थौ स्वकर्मणि |
अर्धवेदधरावेतावेकपक्षाविव द्विजौ ||५०||
"There are those who are merely knowledgeable in theory but lack practical expertise; they become bewildered when faced with a patient, like a coward in battle."
"Then there are those who are skilled in practice but lack theoretical knowledge; they are not honored among the wise and face punishment from the king."
"Both of these types are incompetent and incapable in their respective tasks, like birds with only one wing."
These verses emphasize the importance of being well-versed in both theoretical knowledge and practical skills. A physician must balance both to be truly effective and respected in their profession.
ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः |
भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ||५१||
"Medicinal herbs, which are like nectar, can become as deadly as weapons, fire, or poison when used by the ignorant. Therefore, one should avoid them."
This verse emphasizes the importance of proper knowledge and skill in the use of medicinal herbs. It suggests that, in the hands of an untrained person, even the most beneficial substances can become harmful.
स्नेहादिष्वनभिज्ञो यश्छेद्यादिषु च कर्मसु |
स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ||५२||
"Dear Sushruta! The purpose of Ayurveda is to free those afflicted by diseases from their ailments and to protect the health of the healthy."
This verse succinctly captures the dual objectives of Ayurveda: curing diseases and maintaining health.
यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने |
आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ||५३||
"One who is knowledgeable in both theory and practice, and is wise, is capable of achieving success in his duties, like a two-wheeled chariot that is able to bear the load in battle."
This verse emphasizes the importance of being proficient in both theoretical knowledge and practical skills. It suggests that only such a balanced individual can truly succeed in their profession, similar to how a well-balanced chariot is effective in battle.
अथ वत्स! तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानं- अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा; ते च पदपादश्लोका भूयः क्रमेणानुसन्धेयाः, एवमेकैकशो घटयेदात्मना चानुपठेत्; अद्रुतमविलम्बितमविशङ्कितमननुनासिकं सुव्यक्ताक्षरमपीडितवर्णमक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतं नात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् |
न चान्तरेण कश्चिद्व्रजेत् तयोरधीयानयोः ||५४||
"Now, my dear, this must be studied as I explain it. The teacher should instruct the disciple who is clean, composed, attentive, and ready to learn, as much as possible—word by word, quarter by quarter, or verse by verse. These words, quarters, and verses should then be continuously reviewed. Each should be recited by oneself, slowly, without haste or delay, without hesitation, clearly articulated, with pure and unstrained syllables, without gesticulations of the eyes, eyebrows, lips, or hands. It should be properly enunciated, neither too loud nor too soft in voice. No one should disturb them during their study."
This verse provides detailed instructions on the proper method of studying and reciting the texts, emphasizing clarity, composure, and uninterrupted focus.
भवतश्चात्र |
शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः |
पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ||५५||
"Therefore, one who is clean, devoted to the teacher, diligent, and free from drowsiness and sleepiness, by studying in this manner, the disciple will attain the complete knowledge of the scriptures."
This verse emphasizes the importance of cleanliness, dedication to the teacher, diligence, and alertness for a disciple. By adhering to these qualities and studying in the prescribed manner, the disciple can achieve complete mastery over the texts.
वाक्सौष्ठवेऽर्थविज्ञाने प्रागल्भ्ये कर्मनैपुणे |
तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ||५६||
"One who has completed their studies should strive for excellence in speech, understanding of meanings, proficiency, skill in practice, and mastery through repeated practice."
This verse highlights the qualities that a student should aim to develop upon the completion of their studies. It emphasizes the importance of eloquence, comprehension, expertise, practical skills, and continuous practice to achieve mastery.
इति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसम्प्रदानीयो नाम तृतीयोऽध्यायः ||३||
"Thus, in the Sushruta Samhita, in the Sutra Sthana, ends the third chapter named ‘Imparting Education.’"
This concluding verse marks the end of the third chapter of the Sutra Sthana in the Sushruta Samhita, dedicated to the methods and importance of imparting education in Ayurveda.

